________________
॥ श्रीरस्तु ॥
श्रीमते रामानुजाय नमः । श्रीमन्निगमान्तमहादेशिकाय नमः ।
श्रीमद्वेदान्तदेशिकग्रन्थमालायाम्
|| वेदान्तविभागः || || अधिकरणसारावली ॥
श्रीमान्वेङ्कटनाथार्यः कवितार्किक केसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
- ( शास्त्रावतारः ) -
स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनं तत्प्रसत्त्यै सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदध्याप्य युक्तान् । विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां वेदान्ताचार्य संज्ञामवहितबहुवित्सार्थ मन्वर्थयामि ॥ १ ॥
मन्तॄन्
श्रीमद्भयां स्यादसावित्यनुपधि वरदाचार्य रामानुजाभ्यां सम्यग्दृष्टेन सर्वंसहनिशितधिया वेङ्कटेशेन कृतः । सेव्योऽसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा सिद्ध शारीरकार्थे सहज बहुगुणः स्रग्धरादुग्धराशिः ॥ २ ॥ त्रध्यन्तस्वान्त (वे) वादिन्यधिकरणगणे पौनरुक्त्योक्तबाधौ मन्दत्वासङ्गतत्वे विशयमफलतां मानबाधं च दिमोह क्षोभदोनान् दिनकरकिरण श्रेणिके वोज्जिहाना हृद्या पद्यावलीयं हृदयमधिगता सावधानान्धिनोतु || ३ || गम्भीरे ब्रह्मभागे गणयितुमखिलं कः प्रवीणः प्रमेयं ? दिमात्रं दर्शयन्नप्यहमिह निपुणैः प्राध्वमध्यक्षणीयः । मा भून्निश्शेषसिद्धिस्तदपि गुणविदः स्फीतनिस्सीमरत्ने मध्येहारं निधेयं महति जहति किं मौक्तिकं लब्धमब्धौ ? ॥ वेदार्थे न्यायचिन्त्ये प्रथममधिगतः कर्मवर्गः प्रमाणैः भेदैरङ्गै: प्रयुक्त्या क्रमविर चनयाऽयाधिकृत्याऽतिदिष्टया | तत्राशेषैर्विशेषैस्तदनु तदनुवर्त्यहतः प्राप्तबाधैः तन्त्रेणाथ प्रसक्त्या तत उपरि चतुर्लक्षणी देवतार्था ||९|| प्राग्धर्मेऽल्पास्थिरार्थे प्रशमितविशये तादृशा राज्ययुक्तेऽथातश्शारीरकांशे बहुविधमहिम ब्रह्म मीमांसितव्यम् । कृत्स्नखाद्ध्यायसाङ्गाध्ययनसमुदितापातबुद्धचैव कर्म त्यक्त्वाऽऽदौ ब्रह्मचिन्तां किमिति नकुरुतां तन्न तुल्योक्त्यबाधात् ॥ प्रावण्यं प्राक्त्रिवर्गे सफलयतनतोपासनाङ्गत्वतोऽपि व्याख्यारूपेऽत्र शास्त्रे क्रमनियतिरतः स्याच्च मुख्य क्रमेण । मानत्वादिर्विचार्यः पुरत इह तथा वाक्यवेद्यात्पदार्थो दृष्टान्तश्चोपमेयाद्यदि मधु सविधे यातु चाद्रि किमर्थ (म) : || व्याचख्युः केऽपि तापत्रयहतिमितरे साधनानां चतुष्कं काण्डेऽस्मिन् पूर्ववृत्तं कथयति निगमः कर्मचिन्ताफलं तत् । साङ्गाधीतिर्हि सूते विशयमवसरः क्वात्र तन्त्रान्तरादेरौचित्यस्थापितोऽयं क्रम इह न पुनश्चोदना संप्रयुक्तः ॥ ८ ॥